(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.30. अध्यायः 030
Mahabharata - Vana Parva - Chapter Topics
भर्तृव्यसनदर्शनदूनया द्रौपद्या युधिष्ठिरंप्रति धर्मादितोऽपि विधेरेव प्राबल्योपपादनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

द्रौपद्युवाच। 3-30-0x(1856)(16781)
नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव।
पितृपैतामहे राज्ये वोढव्ये तेऽन्यथा मतिः ॥ 3-30-1(16782)
[कर्मभिश्चिन्तितो लोको गत्यांगत्यां पृथग्विधः।
तस्मात्कर्माणि नित्यानि लोभान्मोक्षं यियासति ।] 3-30-2(16783)
नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च।
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित् ॥ 3-30-3(16784)
त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्।
स त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः ॥ 3-30-4(16785)
न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत।
धर्मात्प्रियतरं किंचिदपि चेज्जीवितादपि ॥ 3-30-5(16786)
धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते।
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः ॥ 3-30-6(16787)
भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह।
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः ॥ 3-30-7(16788)
राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः।
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति ॥ 3-30-8(16789)
त्यक्त्वाऽन्यान्हि नरव्याघ्र नित्यदा धर्म एव ते।
बुद्धिः सततमन्वेति छायेवं पुरुषं निजा ॥ 3-30-9(16790)
नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः।
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत ॥ 3-30-10(16791)
स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्।
देवताश्च पितॄंश्चैव सततं पार्थ सेवसे ॥ 3-30-11(16792)
ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः।
यतयो मोक्षिणश्चैव गृहस्ताश्चैव भारत ॥ 3-30-12(16793)
भुञ्जते रुक्मपात्रीभिर्यत्राहं परिचारिका।
आरण्यकेभ्यो वन्यानि भोजनानि प्रयच्छसि।
नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते ॥ 3-30-13(16794)
यदिदं वैश्वदेवान्ते सायं प्रातः प्रदीयते।
तद्दत्त्वाऽतिथिभृत्येभ्योराजञ्शिष्टेनजीवसि ॥ 3-30-14(16795)
इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये।
वर्तन्ते पाकयज्ञाश्च सदा यज्ञाश्च तेऽनघ ॥ 3-30-15(16796)
अस्मिन्नपि महारण्ये विजने दस्युसेविते।
राष्ट्रादपेत्य वसतो धर्मस्ते नावसीदति ॥ 3-30-16(16797)
अश्वमेधो राजसूयः पौण्डरीकोऽथ गोसवः।
इष्टास्त्वया महायज्ञाबहवोऽन्ये सदक्षिणाः ॥ 3-30-17(16798)
राजन्परीतया बुद्ध्या विषमेऽक्षपराजये।
पार्थ मित्राणि चास्मांश्च वसूनि च पराजितः ॥ 3-30-18(16799)
ऋजोर्मृदोर्बदान्यस्य धीमतः सत्यवादिनः।
कथमक्षव्यसनजा बुद्धिरापतिता तव ॥ 3-30-19(16800)
अतीव मोह आयाति मनश् परिदूयते।
निशाम्य व्यसनं पार्थ तवेदमतिदुःसहम् ॥ 3-30-20(16801)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा ॥ 3-30-21(16802)
धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये।
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥ 3-30-22(16803)
यथा दारुमयीं योषां नरो धीरः समाहितः।
इङ्ग्यत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः ॥ 3-30-23(16804)
आकाश इव भूतानि व्याप्य सर्वाणि भारत।
ईश्वरो विदधातीह कल्याणं यच्च पापकम् ॥ 3-30-24(16805)
शकुनिस्तन्तुबद्धो वा नीयतेऽयमनीश्वरः।
ईश्वरस्य वशे तिष्ठन्नान्येषामात्मनः प्रभुः ॥ 3-30-25(16806)
मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः।
धातुरादेशमन्वेति तन्मयो हि तदर्पणः ॥ 3-30-26(16807)
नात्माथीनो मनुष्योऽयं कालं भजतिं कंचन।
स्रोतसो मध्यमापन्नः कूलवृक्ष इव च्युतः ॥ 3-30-27(16808)
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः।
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च ॥ 3-30-28(16809)
यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः।
धातुरेवं वशं यान्ति सर्वभूतानि भारत ॥ 3-30-29(16810)
आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वः।
व्याप्य भूतानि चरते न चायमिति लक्ष्यते ॥ 3-30-30(16811)
हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्।
येन कारयते कर्म शुभाशुभफलं विभुः ॥ 3-30-31(16812)
पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः।
यो हन्ति भूतैर्भूतानि मोहयित्वाऽऽत्ममायया ॥ 3-30-32(16813)
अन्यथा परिदृष्टानि मुनिभिस्तत्त्वदर्शिभिः।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ 3-30-33(16814)
अन्यथैव हि वर्तन्ते पुरुषास्तानि तानि च।
अन्यथैव प्रभुस्तानि करोति विकरोति च ॥ 3-30-34(16815)
यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः।
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम् ॥ 3-30-35(16816)
एवं स भगवान्देवः स्वयंभूः प्रपितामहः।
निहन्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर ॥ 3-30-36(16817)
संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः।
क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव ॥ 3-30-37(16818)
न मातृपितृवद्राजन्धाता भूतेषु वर्तते।
रोषादिव प्रवृत्तोऽयं यथाऽयमितरो जनः ॥ 3-30-38(16819)
आर्याञ्शीलवो दृष्ट्वा हीमतो वृत्तिकर्शितान्।
अनार्यान्सुखिनश्चैव विह्वलानिव चिन्तये ॥ 3-30-39(16820)
तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने।
धातारं गर्हये पार्थ विषमं योऽनुपश्यति ॥ 3-30-40(16821)
आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि।
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते ॥ 3-30-41(16822)
कर्मचेत्कृतमन्वेति कर्तारं नान्यमृच्छति।
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः ॥ 3-30-42(16823)
अथ कर्मकृतं पापं न चेत्कर्तारमृच्छति।
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान् ॥ 3-30-43(16824)

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-30-1 धात्रे ईश्वराय। विधात्रे पूर्वकर्मणे ॥ 3-30-2 चिन्तितः कल्पितो लोको भोगसाधनम्। गत्यांगत्यां ऊर्ध्वाधोमध्यमोत्तमाधमयोनिषु। नित्यानि अपरिहार्यफलानि। लोभात् मोहात् मोक्षं कर्मफलेभ्यो दुःखेभ्यो मुक्तिं यियासति प्राप्तुमिच्छति ॥ 3-30-5 धर्मात्प्रियतरं नहि त अष्यगमन् ज्ञातवन्तः किंतु जीवितादपि प्रियतरं धर्ममेवाध्यगमन् ॥ 3-30-10 शृङ्गं प्रभुत्वाभिमानः ॥ 3-30-12 ते त्वया ॥ 3-30-15 पाकयज्ञा गृह्याग्निसाध्या इष्टयः ॥ 3-30-18 परीतया विपरीतया ॥ 3-30-19 ऋजोरवक्रस्य। मृदोर्दयालोः ॥ 3-30-22 धाता ईश्वरः। तथैव खलु इति क. पाठः। शुक्रं प्राक्कर्मवीजम्। उच्चरन्नुत्कर्षेणानुसरन् ॥ 3-30-24 अन्तर्बहिर्व्याप्तौ आकाशदृष्टान्तः। बूतानि जरायुजादीनि ॥ 3-30-25 बद्धो वा बद्धइव ॥ 3-30-26 नसि नासिकायाम्। नस्यं नासासूत्रं तेन वा ओतः प्रोतः ॥ 3-30-37 संप्रयोज्यसंयोगं कृत्वा कामकार इच्छा तयैव करोतीति कामकारकरः। क्रीडनकैः सारीप्रभृतिभिः ॥ 3-30-42 कृतं कर्म यदि कर्तारमेव गच्छति नत्वन्यं तर्हि कारयितृतच्वादीश्वरोपि पापेन लिप्येतैवेत्यर्थः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.